मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४, ऋक् ७

संहिता

स यो व्यस्था॑द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो॑पाः ।
अ॒ग्निः शो॒चिष्माँ॑ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ॥

पदपाठः

सः । यः । वि । अस्था॑त् । अ॒भि । धक्ष॑त् । उ॒र्वीम् । प॒शुः । न । ए॒ति॒ । स्व॒ऽयुः । अगो॑पाः ।
अ॒ग्निः । शो॒चिष्मा॑न् । अ॒त॒सानि॑ । उ॒ष्णन् । कृ॒ष्णऽव्य॑थिः । अ॒स्व॒द॒य॒त् । न । भूम॑ ॥

सायणभाष्यम्

योग्निर्व्यस्थात् विविधंतिष्ठति व्याप्नोतिविश्वंतथायोग्निरुर्वींविस्तृतं पृथिवींसर्वांअभिधक्षत् आ- भिमुख्येनप्रवर्धमानोभवति उभेअपियच्छब्दयोगान्ननिहन्येते सोग्निः पशुर्नपशुरिव यथा जातःपशुः स्वच्छन्देनचरति तथास्वयुः स्वयमेवगच्छन् अगोपाः गोपरहितः नियामकवर्जितइत्यर्थः एतिगच्छ- ति किंकुर्वन् शोचिष्मान्प्रकृष्टदीप्तिः कृष्णव्यथिः कृष्णवर्णंप्राप्तादग्धाव्यथाकराः कण्टकादयोयेन ता- दृशःसन् भूमअत्यधिकंअस्वदयत् न आस्वादयतीववृक्षगतान् रसान् अतसानिसततानिनीरसानिवा- तरुगुल्मादीनिउष्णन् दहन्नेति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५