मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४, ऋक् ८

संहिता

नू ते॒ पूर्व॒स्याव॑सो॒ अधी॑तौ तृ॒तीये॑ वि॒दथे॒ मन्म॑ शंसि ।
अ॒स्मे अ॑ग्ने सं॒यद्वी॑रं बृ॒हन्तं॑ क्षु॒मन्तं॒ वाजं॑ स्वप॒त्यं र॒यिं दा॑ः ॥

पदपाठः

नु । ते॒ । पूर्व॑स्य । अव॑सः । अधि॑ऽइतौ । तृ॒तीये॑ । वि॒दथे॑ । मन्म॑ । शं॒सि॒ ।
अ॒स्मे इति॑ । अ॒ग्ने॒ । सं॒यत्ऽवी॑रम् । बृ॒हन्त॑म् । क्षु॒ऽमन्त॑म् । वाज॑म् । सु॒ऽअ॒प॒त्यम् । र॒यिम् । दाः॒ ॥

सायणभाष्यम्

हेअग्ने तेतवसंबन्धिनः पूर्वस्यपूर्वंयागसमये कृतस्यावसोभिमततर्पणस्यअधीतौस्मरणे सति त- त्स्मृत्यानु अद्यापितृतीयेविदथेयागेतृतीयसवने यद्वा प्रातरनुवाकसंबन्धिनांआग्नेयोषस्याश्विनानांम- ध्येअन्यतमेतृतीयेक्रतौ मन्ममननीयंस्तोत्रंशंसि अशंसि शस्यतेस्माभिः हेअग्ने त्वंचास्मेअस्मभ्यंसंय- द्वीरंसंयतोवीरायस्मिन् तादृशं बृहन्तंमहान्तं क्षुमन्तंशब्दवन्तंकीर्तिमन्तंवाजंउक्तलक्षणमन्नं स्वप- त्यंरयिंचदाः देहि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५