मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४, ऋक् ९

संहिता

त्वया॒ यथा॑ गृत्सम॒दासो॑ अग्ने॒ गुहा॑ व॒न्वन्त॒ उप॑राँ अ॒भि ष्युः ।
सु॒वीरा॑सो अभिमाति॒षाह॒ः स्मत्सू॒रिभ्यो॑ गृण॒ते तद्वयो॑ धाः ॥

पदपाठः

त्वया॑ । यथा॑ । गृ॒त्स॒ऽम॒दासः॑ । अ॒ग्ने॒ । गुहा॑ । व॒न्वन्तः॑ । उप॑रान् । अ॒भि । स्युरिति॒ स्युः ।
सु॒ऽवीरा॑सः । अ॒भि॒मा॒ति॒ऽसहः॑ । स्मत् । सू॒रिऽभ्यः॑ । गृ॒ण॒ते । तत् । वयः॑ । धाः॒ ॥

सायणभाष्यम्

हेअग्ने त्वयारक्षकेणवन्वन्तः त्वांसंभजंतः गृत्समदाऋषयः आत्मनिपारोक्ष्येणवचनं यथागुहागु- हायांवर्तमानान् उपरान् उपरमणसाधनान् उपरिउत्कृष्टेवर्तमानान्वाधनविशेषानभिस्युः अभिभवे- युःस्वाधीनान् कुर्युः यद्वा गूढानुपरान् उपरिअधिकत्वेनवर्तमानान् पापानभिस्युः अभिभवेयुः तथा- कुर्वित्यर्थः कीदृशाः सुवीरासः शोभनपुत्राद्युपेताः अभिमातिसहः वैरिणांपापादीनांसोढारः किञ्च सूरिभ्योमेधाविभ्योयजमानेभ्योगृणते व्यत्ययेनैकवचनं शब्दयद्भ्यः स्तोतृभ्यः यद्वा सूरिभ्योयजमा- नेभ्योगृणतेस्तोत्रेचस्मत् सुमत् अतिप्रभूतंतत्तादृशंप्रसिद्धंवयोन्नंधाः धेहि ॥ ९ ॥

होताजनिष्टेत्यष्टर्चंपञ्चमंसूक्तं सोमाहुतेरार्षमाग्नेयमानुष्टुभं होताष्टावानुष्टुभमित्यनुक्रान्तम् प्रात- रनुवाकाश्विनशस्त्रयोराग्नेयेक्रतावस्यविनियोगः सूत्रितञ्च—अग्नायोहोताजनिष्टेतिचतुर्विंशेहन्यपीद- मेवाज्यंसूत्रितम्—चतुर्विशेहोताजनिष्टेत्याऽज्यमिति आभिप्लविकेद्वितीयेहनीदमेवाज्यं द्वितीयस्य- च्तुर्विंशेनाज्यमित्यतिदिष्टत्वात् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५