मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ५, ऋक् १

संहिता

होता॑जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये॑ ।
प्र॒यक्ष॒ञ्जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यम॑म् ॥

पदपाठः

होता॑ । अ॒ज॒नि॒ष्ट॒ । चेत॑नः । पि॒ता । पि॒तृऽभ्यः॑ । ऊ॒तये॑ ।
प्र॒ऽयक्ष॑न् । जेन्य॑म् । वसु॑ । श॒केम॑ । वा॒जिनः॑ । यम॑म् ॥

सायणभाष्यम्

होताहोमनिष्पादकः चेतनः चेतयितास्मदनुष्ठितस्यपितापालकोस्मद्यज्ञस्यईदृशोग्निरजनिष्ट उत्पन्नः किमर्थंपितृभ्यः पालकेभ्योयजमानेभ्यः षष्ठ्यर्थेचतुर्थी तेषामूतयेरक्षणायच वयंचवाजिनः हविर्लक्षणान्नवन्तःसन्तः प्रयक्षंप्रकर्षेणपूज्यं जेन्यंजेतव्यं यमंयमयितव्यं वसुधनं शकेम शक्ताभूयास्म लब्धुमितिशेषः यद्वा वाजिनोन्नस्ययमंयमनंकर्तुंशकेमप्रयक्षंजेन्यंवसुधनमित्युपमानंउक्तलक्षणंधन- मिवतत् यथावरोद्धंशाक्नुमस्तद्वत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६