मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ५, ऋक् ३

संहिता

द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् ।
परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ॥

पदपाठः

द॒ध॒न्वे । वा॒ । यत् । ई॒म् । अनु॑ । वोच॑त् । ब्रह्मा॑णि । वेः । ऊं॒ इति॑ । तत् ।
परि॑ । विश्वा॑नि । काव्या॑ । ने॒मिः । च॒क्रम्ऽइ॑व । अ॒भ॒व॒त् ॥

सायणभाष्यम्

पूर्वेमन्त्रेहोत्रादिवत् स्वयमपियज्ञंनिर्वहतीत्युक्तं अत्रतुसर्वंतत्तदात्मनास्थित्वास्वयमेवनिर्व- हतीत्याह—वाअथवाईमेनंयज्ञंअनुलक्षीकृत्य यद्धविरादिकंदधन्वेधारयत्यध्वर्थ्वादिरूपः यानिब्रह्मा- णिशस्त्रदीनिअनुवोचत् अनुवक्ति होत्रदिरूपः अत्रवाइत्येतद्योज्यं तत्सर्वंवेःउवेरेवकामयते जानाति- वास्वयमनुष्ठातुं अयमग्निर्विशानिसर्वाणिकाव्याकाव्यानिकवयोमेधाविनऋत्विजस्तत्संबन्धीनिकर्मा- णिपर्यभवत् परिभवतिस्वायत्तानिकरोति व्याप्नोतीत्यर्थः व्याप्तौदृष्टान्तः—नेमिः बहिर्वेष्टनबलयः चक्रमिवरथाङ्गयथा कार्त्स्न्येनव्याप्नोतितद्वत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६