मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ५, ऋक् ४

संहिता

सा॒कं हि शुचि॑ना॒ शुचि॑ः प्रशा॒स्ता क्रतु॒नाज॑नि ।
वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु॑ रोहते ॥

पदपाठः

सा॒कम् । हि । शुचि॑ना । शुचिः॑ । प्र॒ऽशा॒स्ता । क्रतु॑ना । अज॑नि ।
वि॒द्वान् । अ॒स्य॒ । व्र॒ता । ध्रु॒वा । व॒याःऽइ॑व । अनु॑ । रो॒ह॒ते॒ ॥

सायणभाष्यम्

शुचिःस्वयंशोधकः प्रशास्तादेवानां एतन्नामकऋत्विक्प्रशासितावायज्ञविघ्नानां शुचिना क्रतुना- शोधकेनाग्निहोत्रादिकर्मणा साकंहिसहैवाजनिउत्पन्नः जातमात्रएवशुद्धः सर्वस्यप्रशास्ता चसन्नग्नि- होत्रादिनिर्वोढाभवदित्यर्थः अस्याग्नेर्ध्रुवा ध्रुवाणि फलपर्यवसायीनि व्रताव्रतानि कर्माणि विद्वान् जानन् यजमानोवयाइवविस्तृताः शाखाइवानुरोहते क्रमेणानुतिष्ठति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६