मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ५, ऋक् ५

संहिता

ता अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टु॑ः सचन्त धे॒नवः॑ ।
कु॒वित्ति॒सृभ्य॒ आ वरं॒ स्वसा॑रो॒ या इ॒दं य॒युः ॥

पदपाठः

ताः । अ॒स्य॒ । वर्ण॑म् । आ॒युवः॑ । नेष्टुः॑ । स॒च॒न्त॒ । धे॒नवः॑ ।
कु॒वित् । ति॒सृऽभ्यः॑ । आ । वर॑म् । स्वसा॑रः । याः । इ॒दम् । य॒युः ॥

सायणभाष्यम्

याःवक्ष्यमाणलक्षणाअंगुलयः इदमनुष्ठीयमानं कर्मययुः प्राप्नुवन्ति अनुतिष्ठन्ति ताआयुवः गंत्र्यः व्याप्ताधेनवः प्रीणयित्र्यः स्वसारः स्वयंसारिण्योंगुलयोनेष्टुः हविर्याचितुः भक्षयितुः शोधयितुः पोष- यितुःनेतुर्वास्याग्नेः यद्वैतन्नामकऋत्विग्रूपस्य तिसृभ्यःआ गार्हपत्यादिमूर्तीनामपिवरंवर्णंकुवित् बहु- कृत्वः सचन्त सेवन्तेपरिचरन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६