मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ५, ऋक् ६

संहिता

यदी॑ मा॒तुरुप॒ स्वसा॑ घृ॒तं भर॒न्त्यस्थि॑त ।
तासा॑मध्व॒र्युराग॑तौ॒ यवो॑ वृ॒ष्टीव॑ मोदते ॥

पदपाठः

यदि॑ । मा॒तुः । उप॑ । स्वसा॑ । घृ॒तम् । भर॑न्ती । अस्थि॑त ।
तासा॑म् । अ॒ध्व॒र्युः । आऽग॑तौ । यवः॑ । वृ॒ष्टीऽइ॑व । मो॒द॒ते॒ ॥

सायणभाष्यम्

य्दियदामातुः सर्वस्यनिर्मातुर्भूम्याः वेदिलक्षणायाः स्वसा स्वसृस्थानीयाजुहूर्घृतंभरन्ती सती उ- पास्थित उपतिष्ठेदग्निं एकवचनमविवक्षितं जुहूपभृद्धृवाः घृतंभरन्त्यः तिष्ठन्तीत्यर्थः तदातासां जु- ह्वादीनामागतौ यागायप्राप्तौ सत्यां अध्वर्युः एतन्नामकऋत्विग्रूपः अध्वरं कामयमानोवायमग्निः मोदते हृष्यति यवोवृष्टीव वृष्ट्यायथामोदते तद्वत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६