मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ५, ऋक् ७

संहिता

स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विज॑म् ।
स्तोमं॑ य॒ज्ञं चादरं॑ व॒नेमा॑ ररि॒मा व॒यम् ॥

पदपाठः

स्वः । स्वाय॑ । धाय॑से । कृ॒णु॒ताम् । ऋ॒त्विक् । ऋ॒त्विज॑म् ।
स्तोम॑म् । य॒ज्ञम् । च॒ । आत् । अर॑म् । व॒नेम॑ । र॒रि॒म । व॒यम् ॥

सायणभाष्यम्

अयमग्निः स्वः स्वयमेवस्वाय स्वकीयाय धायसेकर्मणेहविषांधारणायवा ऋत्विक् होता जनिष्टे- त्यादिनोक्तलक्षणोहोतृपोतृप्रशास्त्राद्यृत्विग्रूपः सन् ऋत्विजंआर्त्विज्यं भावप्रधानोयंनिर्देशः देवर्त्विग्रू- पः सन् ऋत्विजंमानुषमार्त्विज्यंकृणुतांकरोतु वयंचतदनुग्रहात् आदनन्तरमेवस्तोत्रं यज्ञं चतदाश्रयं यागमपिअरंअलमत्यर्थंवनेम संभजेमहि ररिम ददेमहिचहविः यद्वा स्तोमंवनेमयज्ञं यज्ञयोग्यंहवीर- रिम ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६