मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ६, ऋक् ३

संहिता

तं त्वा॑ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः ।
स॒प॒र्येम॑ सप॒र्यवः॑ ॥

पदपाठः

तम् । त्वा॒ । गीः॒ऽभिः । गिर्व॑णसम् । द्र॒वि॒ण॒स्युम् । द्र॒वि॒णः॒ऽदः॒ ।
स॒प॒र्येम॑ । स॒प॒र्यवः॑ ॥

सायणभाष्यम्

हेद्रविणोदः धनस्यदातः अग्ने तंतादृशंगिर्वणसं गीर्भिः स्तुतिभिर्वननीयंद्रविणस्युंहविर्लक्षणधने- च्छुंत्वात्वांसपर्यवः परिचरणकर्तारोवयंगीर्भिःस्तुतिभिः सपर्येम परिचरेम ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७