मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ६, ऋक् ४

संहिता

स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् ।
यु॒यो॒ध्य१॒॑स्मद्द्वेषां॑सि ॥

पदपाठः

सः । बो॒धि॒ । सू॒रिः । म॒घवा॑ । वसु॑ऽपते । वसु॑ऽदावन् ।
यु॒यो॒धि । अ॒स्मत् । द्वेषां॑सि ॥

सायणभाष्यम्

वसुपतेधनपते वसुदावन् मघवाअन्नवान् सूरिर्विद्वान् प्रेरकोवा सउक्तलक्षणकस्त्वंबोधि बुद्ध्य- स्व अस्मदीयंस्तोत्रं किञ्च हेअग्ने देषांसिद्वेष्टॄनस्मद्स्मत्तोयुयोधि पृथक्कुरु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७