मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ६, ऋक् ५

संहिता

स नो॑ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाण॑म् ।
स नः॑ सह॒स्रिणी॒रिषः॑ ॥

पदपाठः

सः । नः॒ । वृ॒ष्टिम् । दि॒वः । परि॑ । सः । नः॒ । वाज॑म् । अ॒न॒र्वाण॑म् ।
सः । नः॒ । स॒ह॒स्रिणीः॑ । इषः॑ ॥

सायणभाष्यम्

सः सएवाग्निः नोस्मदर्थंदिवस्परि द्युलोकादन्तरिक्षात् परीतिपञ्चम्यर्थानुवादी वृष्टिंकरोतीतिच- शेषः सएवनोस्मदर्थमनर्वाणमविचलमनल्पंवाजंबलंददातु तथासहस्रिणीः अपरिमितप्रकाराणि इषः अन्नानि सएवाग्निर्नोस्मभ्यंददातु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७