मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ६, ऋक् ६

संहिता

ईळा॑नायाव॒स्यवे॒ यवि॑ष्ठ दूत नो गि॒रा ।
यजि॑ष्ठ होत॒रा ग॑हि ॥

पदपाठः

ईळा॑नाय । अ॒व॒स्यवे॑ । यवि॑ष्ठ । दू॒त॒ । नः॒ । गि॒रा ।
यजि॑ष्ठ । हो॒तः॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

हेयविष्ठ युवतम दूत देवानांयज्ञादिसूचक यजिष्ठ अतिशयेनयष्टव्य होतः देवानामाह्वातरग्ने नो- गिराअस्मदीययास्तुत्याईळानाय पूजयित्रे अवस्यवेस्वरक्षणमिच्छतेमदर्थं आगहि आगच्छ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७