मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ६, ऋक् ८

संहिता

स वि॒द्वाँ आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् ।
आ चा॒स्मिन्त्स॑त्सि ब॒र्हिषि॑ ॥

पदपाठः

सः । वि॒द्वान् । आ । च॒ । पि॒प्र॒यः॒ । यक्षि॑ । चि॒कि॒त्वः॒ । आ॒नु॒षक् ।
आ । च॒ । अ॒स्मिन् । स॒त्सि॒ । ब॒र्हिषि॑ ॥

सायणभाष्यम्

हेअग्ने सत्वंविद्वान् विशेषाभिज्ञःसन् आचपिप्रयः सर्वतोस्मान् पूरयचकामैः हेचिकित्वश्चेतनावा- न् आनुषक् अनुक्रमेणयक्षि यज देवान् आसत्सिआसीदचास्मिन् स्तीर्णेबर्हिषि ॥ ८ ॥

श्रेष्ठंयविष्ठेतिषडृचंसप्तमंसूक्तंसोमाहुत्यार्षमाग्नेयंगायत्रं प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दस्य- स्यविनियोगःपूर्वसूक्तएवोक्तः श्रवणाकर्मण्याद्याविनियक्ता ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७