मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ७, ऋक् १

संहिता

श्रेष्ठं॑ यविष्ठ भार॒ताग्ने॑ द्यु॒मन्त॒मा भ॑र ।
वसो॑ पुरु॒स्पृहं॑ र॒यिम् ॥

पदपाठः

श्रेष्ठ॑म् । य॒वि॒ष्ठ॒ । भा॒र॒त॒ । अग्ने॑ । द्यु॒ऽमन्त॑म् । आ । भ॒र॒ ।
वसो॒ इति॑ । पु॒रु॒ऽस्पृह॑म् । र॒यिम् ॥

सायणभाष्यम्

हेअग्ने यविष्ठयुवतम हेभारत भरताऋत्विजः तेषांसंबन्धीभारतः अध्वर्य्वादिभिःमन्थनहविः स्तोत्रादिनाव्याप्रियमाणात्वःत् तादृश हेवसोवासकव्याप्तवा एवंरूपाग्ने श्रेष्ठंअतिप्रशस्यं द्युमन्तं- दीप्तिमन्तंपुरुस्पृहंबहुभिरर्थिभिःस्पृहणीयंरयिंआभर आहर ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८