मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ७, ऋक् २

संहिता

मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च ।
पर्षि॒ तस्या॑ उ॒त द्वि॒षः ॥

पदपाठः

मा । नः॒ । अरा॑तिः । ई॒श॒त॒ । दे॒वस्य॑ । मर्त्य॑स्य । च॒ ।
पर्षि॑ । तस्याः॑ । उ॒त । द्वि॒षः ॥

सायणभाष्यम्

हेअग्ने त्व्दनुग्रहात् नोस्मानरातिः अदानंशत्रुत्वं यद्वा छंदस्यरातिशब्दः शत्रुवाचीस्त्रीलिङ्गोभ- वति अदाताशत्रुः माईशत पराभवितुंशक्तोमाभूत् माविषयीकुर्यात् अरातिर्विशेष्यते देवस्यचमर्त्ग- स्यचसंबन्धिनी तैःकारिता उतअपिचतस्याउभयविधायाः द्विषः अस्मदरातेः पर्षि स्यचमर्त्यस्यचसं- बन्धिनी तैःकारिता उतअपिचतस्याउभयविधायाः द्विषः अस्मदरातेः पर्षि पूरय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८