मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ७, ऋक् ३

संहिता

विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव ।
अति॑ गाहेमहि॒ द्विषः॑ ॥

पदपाठः

विश्वाः॑ । उ॒त । त्वया॑ । व॒यम् । धाराः॑ । उ॒द॒न्याः॑ऽइव ।
अति॑ । गा॒हे॒म॒हि॒ । द्विषः॑ ॥

सायणभाष्यम्

उतअपिचहेअग्ने वयंत्वदनुग्रहात् विश्वाद्विषः सर्वानपिद्वेष्टॄन् उदन्याधाराइवौदकसंबन्धिनीर्धारा- अल्पस्तुतीरिवत्मना आत्मनैवअन्यनिरपेक्षेणातिगाहेमहि अभिक्रम्यगच्छेम ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८