मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ७, ऋक् ४

संहिता

शुचि॑ः पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे ।
त्वं घृ॒तेभि॒राहु॑तः ॥

पदपाठः

शुचिः॑ । पा॒व॒क॒ । वन्द्यः॑ । अग्ने॑ । बृ॒हत् । वि । रो॒च॒से॒ ।
त्वम् । घृ॒तेभिः॑ । आऽहु॑तः ॥

सायणभाष्यम्

हेपावकशोधकाग्ने शुचिः शुद्धोवन्द्यः नमस्कार्यःसन् महत् अत्यधिकंविरोचते विविधंदीप्यसे यतस्त्वंघृतेभिः घृतैराहुतः समन्तात्सिक्तः अतोविरोचसे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८