मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ७, ऋक् ५

संहिता

त्वं नो॑ असि भार॒ताग्ने॑ व॒शाभि॑रु॒क्षभि॑ः ।
अ॒ष्टाप॑दीभि॒राहु॑तः ॥

पदपाठः

त्वम् । नः॒ । अ॒सि॒ । भा॒र॒त॒ । अग्ने॑ । व॒शाभिः॑ । उ॒क्षऽभिः॑ ।
अ॒ष्टाऽप॑दीभिः । आऽहु॑तः ॥

सायणभाष्यम्

हेभारत ऋत्विजांपुत्रस्थानीयाग्नेनोस्मदीयः त्वंवशाभिः वन्ध्याभिः गोभिः उक्षभिः सेक्तृर्बलीव- र्दैः अष्टापदीभिर्गार्भिणीभिश्चाहुतः अराधितोसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८