मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ७, ऋक् ६

संहिता

द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः ।
सह॑सस्पु॒त्रो अद्भु॑तः ॥

पदपाठः

द्रुऽअ॑न्नः । स॒र्पिःऽआ॑सुतिः । प्र॒त्नः । होता॑ । वरे॑ण्यः ।
सह॑सः । पु॒त्रः । अद्भु॑तः ॥

सायणभाष्यम्

द्र्वन्नः समिद्रूपान्नः सर्पिरासुतिः सर्पिरासूयतेआसिच्यतेयस्मिन्तादृशः प्रत्नः पुरातनः होताहो- मनिष्पादकः वरेण्योवरणीयः सहसस्पुत्रः सहसोबलस्यपुत्रस्थानीयः बलेनोत्पन्नत्वात् अद्भुताआ- श्चर्यभूतोरमणीयइत्यर्थः एवंमहान्भावोग्निः मामनुजानात्वित्यर्थः ॥ ६ ॥

वाजयन्निवेतिषडृचमष्टमंसूक्तं सोमाहुतेर्हशब्दानुवृत्तस्याभावान्मण्डलद्रष्टागृत्समदऋषिः अग्नि- र्देवता हिशब्दायत्रीछन्दः अन्त्यानुष्टुप् वाजयन्निवान्त्यानुष्टुबित्यनुक्रान्तम् प्रातरनुवाकाश्विनशस्त्र- योस्तृतीयसूक्तत्वेनाचस्योत्तमावर्जितस्यविनियोगउक्तः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८