मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ८, ऋक् ३

संहिता

य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ ।
यस्य॑ व्र॒तं न मीय॑ते ॥

पदपाठः

यः । ऊं॒ इति॑ । श्रि॒या । दमे॑षु । आ । दो॒षा । उ॒षसि॑ । प्र॒ऽश॒स्यते॑ ।
यस्य॑ । व्र॒तम् । न । मीय॑ते ॥

सायणभाष्यम्

योग्निः श्रियाज्वालयायुक्तः सन् दमेषु गृहेषुआ आगत्य दोषारात्रिषु उषसि अहःसुच प्रशस्यते स्तूयते यस्याग्नेर्व्रतंकर्मनमीयते नहिंस्यते नक्षीयतेवा उःपूरणः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९