मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ८, ऋक् ४

संहिता

आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ ।
अ॒ञ्जा॒नो अ॒जरै॑र॒भि ॥

पदपाठः

आ । यः । स्वः॑ । न । भा॒नुना॑ । चि॒त्रः । वि॒ऽभाति॑ । अ॒र्चिषा॑ ।
अ॒ञ्जा॒नः । अ॒जरैः॑ । अ॒भि ॥

सायणभाष्यम्

योग्निश्चित्रः चायनीयः नानावर्णोवाअर्चिषाज्वालयारश्मिसमूहेन आविभाति सर्वतोभासते तत्रदृष्टान्तः—स्वर्नभानुना किरणेनसूर्यइव सयथविभातितद्वत् किंकुर्वन् किंकुर्वन् अजरैर्नित्यैः ज्वा- लासमूहैः अभिसर्वताः अञ्चानः व्यञ्चयन् प्रकाशयन् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९