मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ९, ऋक् ३

संहिता

वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ ।
यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ॥

पदपाठः

वि॒धेम॑ । ते॒ । प॒र॒मे । जन्म॑न् । अ॒ग्ने॒ । वि॒धेम॑ । स्तोमैः॑ । अव॑रे । स॒धऽस्थे॑ ।
यस्मा॑त् । योनेः॑ । उ॒त्ऽआरि॑थ । यजे॑ । तम् । प्र । त्वे इति॑ । ह॒वींषि॑ । जु॒हु॒रे॒ । सम्ऽइ॑द्धे ॥

सायणभाष्यम्

हेअग्ने परमेउत्कृष्टेजन्मन् जायतेप्रादुर्भवत्यस्मिन्नितिजन्मस्थानंद्यौः तस्मिन्द्युलोकेवस्थिताय- तेतुभ्यंविधेम स्तुतिभिःपरिचरेम अवरेद्युलोकादधस्तनेसधस्थेन्तरिक्षेस्थितायतुभ्यंस्तोमैः स्तोत्रै- र्विधेम परिचरेम यद्यस्माद्योनेः प्रुथिवीरूपातस्थानात्त्वमुदास्थि उद्गतोसि प्रादुर्भूतोसि तंपृथिवी- प्रदेशंयजेपूजयामि तत्रहिसमिद्धेसमिद्भिःसमिध्यमानेत्वेत्वयि हवींषिपुरोडाशादीनि प्रजुहुरेअध्व- र्य्वादयः प्रजुह्वति जुहोतोर्लिटिरूपम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः