मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् ११

संहिता

पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मन्द॑न्तु त्वा म॒न्दिनः॑ सु॒तासः॑ ।
पृ॒णन्त॑स्ते कु॒क्षी व॑र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र॑माव ॥

पदपाठः

पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम॑म् । मन्द॑न्तु । त्वा॒ । म॒न्दिनः॑ । सु॒तासः॑ ।
पृ॒णन्तः॑ । ते॒ । कु॒क्षी इति॑ । व॒र्ध॒य॒न्तु॒ । इ॒त्था । सु॒तः । पौ॒रः । इन्द्र॑म् । आ॒व॒ ॥

सायणभाष्यम्

शूर बलवन् हेइन्द्र पिबपिबेत् अभिषुतमिमंसोमंपिबैव आदरार्थैषावीप्सा मन्दिनोमदकराः सुतासोभिषुताः सोमाः त्वामन्दतु त्वांमान्दयन्तु । मदिस्तुत्यादिषु व्यत्ययेनपरस्मैपदम् तेसो- मास्तेतवकुक्षीउदरस्योभौपार्श्वौप्रुणन्तः पूरयन्तः सन्तः त्वांवर्धयन्तु इत्थाअनेनप्रकारेण पौरः उदरपूरकः सुतोभिषुतः सोमः इन्द्रंत्वामाव तर्पयतु अवतेस्तर्पणार्थस्यलिटिरूपम् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः