मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् १३

संहिता

स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं॑ व॒र्धय॑न्तः ।
शु॒ष्मिन्त॑मं॒ यं चा॒कना॑म देवा॒स्मे र॒यिं रा॑सि वी॒रव॑न्तम् ॥

पदपाठः

स्याम॑ । ते । ते॒ । इ॒न्द्र॒ । ये । ते॒ । ऊ॒ती । अ॒व॒स्यवः॑ । ऊर्ज॑म् । व॒र्धय॑न्तः ।
शु॒ष्मिन्ऽत॑मम् । यम् । चा॒कना॑म । दे॒व॒ । अ॒स्मे इति॑ । र॒यिम् । रा॒सि॒ । वी॒रऽव॑न्तम् ॥

सायणभाष्यम्

हेइन्द्र तेतवऊतीऊत्याप्रणयनेन अवतेःप्राप्त्यर्थस्यक्तिनिरूपम् तेतवअवस्यवोरक्षाकामाऊर्जंहवि- र्लक्षणमन्नंवर्धयन्तोभवन्ति येवयंतेत्वस्यामत्वदधीनाभवेम देवद्योतमान हेइन्द्र शुष्मिन्तमं दानभो- गायार्हतयाबलवत्तमम् यद्वा शत्रूणांशोषयितृतमंयंरयिंचाकनाम कामयामहे कनतेःकान्त्यर्थस्यय ङ्लुगन्तस्यलोटिरूपं वीरवन्तं पुत्रपौत्रैःसहितंतादृशंरयिमस्मे अस्मभ्यंरासिदेहि ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः