मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् २

संहिता

यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् ।
यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

यः । पृ॒थि॒वीम् । व्यथ॑मानाम् । अदृं॑हत् । यः । पर्व॑तान् । प्रऽकु॑पितान् । अर॑म्णात् ।
यः । अ॒न्तरि॑क्षम् । वि॒ऽम॒मे । वरी॑यः । यः । द्याम् । अस्त॑भ्नात् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

हेजनाःयः इन्द्रः व्यथमानांचलन्तींपृथिवींअदृहत् शर्करादिभिर्दृढामकरोत् द्रुधदृहिवृद्धौ यश्चप्रकु- पितान् इतस्ततश्चलितान् पक्षयुक्तान् पर्वतान् अरम्णात् नियमितवान् स्वेस्वेस्थानेस्थापितवान् अ- रम्णात् रमुक्रीडायां अन्तर्भावितण्यथेस्यव्यत्यनेनश्नाप्रत्ययः यश्चवरीयउरुतममन्तरिक्षं विममे निर्म- मे विस्तीर्णं चकारेत्यर्थः यश्चद्यांदिवमस्तभ्रात् तस्तंभ निरुद्धामकरोत् स्तंभुरोधनेइतिसौत्रोधातुः सएवेन्द्रोनाहमिति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः