मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् ११

संहिता

यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत् ।
ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

यः । शम्ब॑रम् । पर्व॑तेषु । क्षि॒यन्त॑म् । च॒त्वा॒रिं॒श्याम् । श॒रदि॑ । अ॒नु॒ऽअवि॑न्दत् ।
ओ॒जा॒यमा॑नम् । यः । अहि॑म् । ज॒घान॑ । दानु॑म् । शया॑नम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

यःपर्वतेषुक्षियन्तंइन्द्रभियाबहून्संवत्सरान् प्रच्छन्नोभूत्वापर्वतगुहासुनिवसन्तंशंबरंएतन्नामकं- मायाविनमसुरंचत्वारिंश्यांशरदि चत्वारिंशेसंवत्सरेअन्वविन्दत् अन्विष्यालभत लब्ध्वाचयः ओजा- यमानं कर्तुःक्यङ्सलोपश्च ओजसोप्सरसोनित्यमितिसकारलोपः बलमाचरन्तंअहिंआहन्तारं दानुं- दानवं शयानंशंबरमसुरंजघान हतवान्सइन्द्रोनाहमिति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः