अध्व॑र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा॑ ।
तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे॑भि॒स्तदपो॑ वो अस्तु ॥
अध्व॑र्यवः । यः । दि॒व्यस्य॑ । वस्वः॑ । यः । पार्थि॑वस्य । क्षम्य॑स्य । राजा॑ ।
तम् । ऊर्द॑रम् । न । पृ॒ण॒त॒ । यवे॑न । इन्द्र॑म् । सोमे॑भिः । तत् । अपः॑ । वः॒ । अ॒स्तु॒ ॥
हेअध्वर्यवः यइन्द्रः दिव्यस्यद्युलोकार्हस्यवस्वोवसुनोराजाभवति यश्चपार्थिवस्य पृथिवीशब्देन- विस्तीर्णमन्तरिक्षमुच्यते तत्रत्यंधनंपार्थिवं तस्यराजा यश्चक्षम्यस्यक्षमाभूमिः तत्रत्यंधनंक्षम्यंतस्य- चराजाभवति तमेवंविधमिन्द्रंसोमेभिःसोमैः पृणतपूरयत तत्रदृष्टान्तः—ऊर्दरंन ऊर्ध्वंदीर्णमूर्दरंकुसूलं यथायवेनपूर्णंतद्वदिन्द्रंपूरयतेति तत् तादृशंसोमादिनेन्द्रोदरपूरणलक्षणमपःकर्म वोयुष्माकमस्तु ॥ ११ ॥