मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १६, ऋक् ८

संहिता

पु॒रा स॑म्बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी॑ ।
स॒कृत्सु ते॑ सुम॒तिभि॑ः शतक्रतो॒ सं पत्नी॑भि॒र्न वृष॑णो नसीमहि ॥

पदपाठः

पु॒रा । स॒म्ऽबा॒धात् । अ॒भि । आ । व॒वृ॒त्स्व॒ । नः॒ । धे॒नुः । न । व॒त्सम् । यव॑सस्य । पि॒प्युषी॑ ।
स॒कृत् । सु । ते॒ । सु॒म॒तिऽभिः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । सम् । पत्नी॑भिः । न । वृष॑णः । न॒सी॒म॒हि॒ ॥

सायणभाष्यम्

हेइन्द्र संबाधात् शत्रुजन्यात्स्वंबाधात्पुरानोस्मान् अभ्याववृत्स्व आवर्तय यथासंबाधोस्मान् नस्पृशति तथाकुर्वित्यर्थः तत्रदृष्टान्तः—धेनुर्नवत्सं यथायवसस्यघासेनपिप्युषी आप्यायिता धेनुर्वत्सं क्षुद्बाधात्परावर्तयति तद्वत् हेशतक्रतो वयंसुमतिभिः त्वद्विषयैःशोभनैःस्तोत्रैः सकृत् सकृदपिसुनसी- महि सुष्थुव्याप्येमहि तत्रदृष्टान्तः—वृषणोन सेक्तारोयुवानःयथापत्नीभिर्व्याप्यन्तेतद्वत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८