मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् ५

संहिता

न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विनः॑ ।
विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥

पदपाठः

न । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । कुतः॑ । च॒न । न । अरा॑तयः । ति॒ति॒रुः॒ । न । द्व॒या॒विनः॑ ।
विश्वाः॑ । इत् । अ॒स्मा॒त् । ध्व॒रसः॑ । वि । बा॒ध॒से॒ । यम् । सु॒ऽगो॒पाः । रक्ष॑सि । ब्र॒ह्म॒णः॒ । प॒ते॒ ॥

सायणभाष्यम्

हेब्रह्मणस्पते सुगोपाः सुष्टुपालयितात्वंयंजनंरक्षसि पालयसि तंजनंअंहः आहन्तव्यं दुःखंनबाधते दुरितंतत्कारणंपापंचनबाधते अरातयः हिंसकाः तंजनंकुतश्चन सर्वासुदिक्षुन तितिरुः तिरतिर्हिंसाक र्मा लिट् नहिंसन्ति तथाद्वयाविनःमनस्यन्यक्रियायांचान्यदित्येतद्वयं येषामस्तितेद्वयाविनोवञ्चकाः तेपितंजनंनबाधन्ते किञ्चअस्मात् ध्वरसोहिंसिकाः विश्वाः सर्वाः सेनाः तदर्थंविबाधसेइत् विशेषे णबाधसएव ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९