मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् ११

संहिता

अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः ।
असि॑ स॒त्य ऋ॑ण॒या ब्र॑ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी॑ळुह॒र्षिणः॑ ॥

पदपाठः

अ॒न॒नु॒ऽदः । वृ॒ष॒भः । जग्मिः॑ । आ॒ऽह॒वम् । निःऽत॑प्ता । शत्रु॑म् । पृत॑नासु । स॒स॒हिः ।
असि॑ । स॒त्यः । ऋ॒ण॒ऽयाः । ब्र॒ह्म॒णः॒ । प॒ते॒ । उ॒ग्रस्य॑ । चि॒त् । द॒मि॒ता । वी॒ळु॒ऽह॒र्षिणः॑ ॥

सायणभाष्यम्

हेब्रह्मणस्पते अनानुदः अनुपश्चाद्ददातीत्यनुदः सयस्यनास्तीत्यननुदः दात्रन्तरशून्यइत्यर्थः अत- एववृषभः कामानांवर्षिताआहवंआहूयतेत्रेतिआहवोयुद्धं आङियुद्धइतिअप प्रत्ययः संप्रसारणंच तद्युद्धंजग्मिः गन्ता आदृगमहनेतिकिन्प्रत्ययः लिङ्वद्भावादाहवमित्यत्रषष्ठीप्रतिषेधः शत्रुंशातयि तारं निष्टप्तानितरांतस्यतापकः तृन्नन्तत्वात्षष्ठीप्रतिषेधः निसस्तपतावनासेवनेइतिषत्वम् तादौचनि तीतिगतेःस्वरः पृतनासुसङ्ग्रामेषुसासहिः शत्रूणामभिभविता एतादृशस्त्वं सत्यः सत्यपराक्रमः सत्यप्रज्ञोवासि ऋणयाः ऋणस्ययावयितासि युमिश्रणामिश्रणयोः ण्यन्तस्यक्विपिणिलोपेलोपोव्योर्व लीतिवलोपः किञ्च उग्रस्यचित् ओजस्विनोपि दमिताउपशमयितावीळु हर्षिणः दृढहर्षस्यकामुकस्य नास्तिक्स्यदमयितासि ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१