मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् १

संहिता

इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नू॑ः स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि ।
शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंशः॑ ॥

पदपाठः

इ॒माः । गिरः॑ । आ॒दि॒त्येभ्यः॑ । घृ॒तऽस्नूः॑ । स॒नात् । राज॑ऽभ्यः । जु॒ह्वा॑ । जु॒हो॒मि॒ ।
शृ॒णोतु॑ । मि॒त्रः । अ॒र्य॒मा । भगः॑ । नः॒ । तु॒वि॒ऽजा॒तः । वरु॑णः । दक्षः॑ । अंशः॑ ॥

सायणभाष्यम्

आदित्येभ्यः अदितेःपुत्रेभ्यः राजभ्यःराजमानेभ्यः ईश्वरेभ्योवामित्रादिभ्यः घृतस्नूः घृतप्रस्रावि- णीः घृतंक्षरन्तीः इमागिरः स्तुतिलक्षणावाचः सनात् सर्वदाजुह्वा वाङ्गामैतत् वागिन्द्रियेण जुहो- मि प्रयच्छामि करोमीतियावत् यद्वा जुहूस्थानीयत्वेनघृतंक्षरन्ति वाग्रूपाणिहवींषिजुहोमि आदि- त्यानुद्दिश्यत्यजामि मन्त्रणांपयोघृतादिक्षरणेहेतुत्वंच यदृचोधीतेपयसः कुल्याअस्येत्यादिनातैत्ति- रीयेस्पष्टमाम्नातम् नोस्मदीयास्तागिरः मित्रादयः प्रत्येकंश्रृणोतु तेचतैत्तिरीयेअष्टौपुत्रासोअदितेरि- त्युपक्रम्यस्पष्टमनुक्रान्ताः मित्रश्चवरुणश्चधाताचार्यमाचअंशुश्चभगश्चइन्द्रश्चविवस्वांश्चेत्येतइति मित्रःप्रमीतेस्त्रायकः यद्वा सर्वेषांस्निग्धः अरीन् यच्छति नियच्छतीत्यर्यमाभगोभजनीयोदेवः तुविजातः तुवीतिबहुनाम बहुषुदेशेष्वनुग्रहार्थंप्रादुर्भूतः वरुणविशेषणमेतत्पापस्यनिवारणाद्वरुणः दक्षःसमर्थः एतच्चांशस्यविशेषणम् ॥ १ ॥ पूर्वोक्तएवपशौ इमंस्तोममित्येषावपायागस्ययाज्या सूत्रितंच—इमंस्तोमंसक्रतवोमेअद्यतिस्रो- भूमीर्धारयन्त्रीँ रुतद्यूनिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः