मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् ५

संहिता

वि॒द्यामा॑दित्या॒ अव॑सो वो अ॒स्य यद॑र्यमन्भ॒य आ चि॑न्मयो॒भु ।
यु॒ष्माकं॑ मित्रावरुणा॒ प्रणी॑तौ॒ परि॒ श्वभ्रे॑व दुरि॒तानि॑ वृज्याम् ॥

पदपाठः

वि॒द्याम् । आ॒दि॒त्याः॒ । अव॑सः । वः॒ । अ॒स्य । यत् । अ॒र्य॒म॒न् । भ॒ये । आ । चि॒त् । म॒यः॒ऽभु ।
यु॒ष्माक॑म् । मि॒त्रा॒व॒रु॒णा॒ । प्रऽनी॑तौ । परि॑ । श्वभ्रा॑ऽइव । दुः॒ऽइ॒तानि॑ । वृ॒ज्या॒म् ॥

सायणभाष्यम्

हेआदित्याः अदितेःपुत्राः वोयुष्माकं अस्यावसः कर्मणिषष्ठी इदंरक्षणं विद्याम लभेम भयेराक्ष- सादिभ्यः आआगतेसति यद्युष्मदीयंरक्षणम् चिच्छब्दश्चार्थे मयोभु मयसःसुखस्यभावयितृच तदिदं लभेमेत्यन्वयः हेअर्यमन् हे मित्रावरुणौ युष्माकंप्रणीतौ अस्मद्विषये प्रकृष्टेनयनेसति श्वभ्रेवश्वभ्राणी वस्थातुमयोग्यानिगर्तवन्तिस्थलानीवदुरितानिपापानिपरिवृज्यां परित्यजेयं वृजीवर्जने बहुलंछन्द- सीतिविकरणस्यलुक् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः