मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् ६

संहिता

सु॒गो हि वो॑ अर्यमन्मित्र॒ पन्था॑ अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ ।
तेना॑दित्या॒ अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हन्तु॒ शर्म॑ ॥

पदपाठः

सु॒ऽगः । हि । वः॒ । अ॒र्य॒म॒न् । मि॒त्र॒ । पन्थाः॑ । अ॒नृ॒क्ष॒रः । व॒रु॒ण॒ । सा॒धुः । अस्ति॑ ।
तेन॑ । आ॒दि॒त्याः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । यच्छ॑त । नः॒ । दुः॒ऽप॒रि॒हन्तु॑ । शर्म॑ ॥

सायणभाष्यम्

हेअर्यमन् मित्र वरुण वोयुष्माकंसुगः सुखेनगन्तव्यः अनृक्षरः ऋक्षरःकण्टकऋच्छतेरिति तद्रहि- तः साधुः साधकः शोभनोवा एवंगुणविशिष्टः पन्थामार्गोस्तिहि विद्यतेखलु अतस्तेपथाअस्मान् शो- भनं नयतेतिशेषः हेआदित्याः नोस्माकं अधिवोचत अधिवचनं पक्षपातेनवचनं कुरुत अपिनोस्मभ्यं दुष्परिहन्तु दुःखेनपरिहन्तुं विनाशयितुमशक्यंशर्मसुखंयच्छत दत्त दाण् दाने शपिपाघ्रेत्यादिनाय- च्छादेशः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः