मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् ७

संहिता

पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां॑स्यर्य॒मा सु॒गेभि॑ः ।
बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः ॥

पदपाठः

पिप॑र्तु । नः॒ । अदि॑तिः । राज॑ऽपु॒त्रा । अति॑ । द्वेषां॑सि । अ॒र्य॒मा । सु॒ऽगेभिः॑ ।
बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । शर्म॑ । उप॑ । स्या॒म॒ । पु॒रु॒ऽवीराः॑ । अरि॑ष्टाः ॥

सायणभाष्यम्

राजपुत्रा राजानोराजमानामित्रादयःपुत्रायस्याः तादृशी अदितिरदीना अखण्डनीयावादेवीनो- स्मान् द्वेषांसिद्वेष्ट्;उणिरक्षांसि अतिपिपर्तु अतिपारयतु अतिक्रम्यतद्रहितंदेशंप्रापयत्वित्यर्थः अर्य माचसुगेभिः सुष्ठुगन्तव्यैर्मार्गैरस्मान् पारयतु अपिचवयंपुरुवीराः बहुभिःवीरैः पुत्रादिभिरुपेताः अरिष्टाः केनाप्यहिंसिताश्चसन्तः मित्रस्यवरुणस्यचबृहत्परिवृढंशर्मसुखंउपस्याम उपगताभवेम ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः