मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् ८

संहिता

ति॒स्रो भूमी॑र्धारय॒न्त्रीँरु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् ।
ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑ ॥

पदपाठः

ति॒स्रः । भूमीः॑ । धा॒र॒य॒न् । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । व्र॒ता । वि॒दथे॑ । अ॒न्तः । ए॒षा॒म् ।
ऋ॒तेन॑ । आ॒दि॒त्याः॒ । महि॑ । वः॒ । म॒हि॒ऽत्वम् । तत् । अ॒र्य॒म॒न् । व॒रु॒ण॒ । मि॒त्र॒ । चारु॑ ॥

सायणभाष्यम्

तिस्रोभूमीः अत्रभूमिशब्दोलोकत्रयेवर्तते योद्वितीयस्यांतृतीयस्यांपृथिव्यामित्यत्रयथा पृथिवी शब्दः भूम्यन्तरिक्षस्वर्गांस्त्रीन्लोकान् आदित्याः धारयन् वृष्टिप्रदानादिनाधारयन्ति उतअपिच द्यून् दीप्तान् ततउपरितनान् महरादिकानपित्रीन् लोकन्धारयन्ति यद्वा दीप्तान् अग्निंवायुंसूर्यं चधारयन्ति अपिचैषामादित्यानांविदथेयज्ञेअन्तर्मध्येत्रीणिव्रतासवनत्रयनिष्पाद्यानित्रीणिकर्माणिसन्ति यद्वा एषांलोकानामंतर्मध्येविदथेयज्ञेनिमित्तभूतेसति एषामादित्यानांत्रीणिकर्माणिरसादानधारणविसर्ज- नलक्षणानिसन्ति उत्तरोर्धर्चःप्रत्यक्षकृतः हेआदित्याः ऋतेनसत्येनयज्ञेन वामहिमहत्प्रभूतंवोयुष्माकं महित्वंमहत्त्वंयन्महाभाग्यं हेअर्यमन् वरुण मित्र तन्महाभाग्यंचारुशोभनंसर्वोत्कृष्टमित्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः