मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् ९

संहिता

त्री रो॑च॒ना दि॒व्या धा॑रयन्त हिर॒ण्यया॒ः शुच॑यो॒ धार॑पूताः ।
अस्व॑प्नजो अनिमि॒षा अद॑ब्धा उरु॒शंसा॑ ऋ॒जवे॒ मर्त्या॑य ॥

पदपाठः

त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ । हि॒र॒ण्ययाः॑ । शुच॑यः । धार॑ऽपूताः ।
अस्व॑प्नऽजः । अ॒नि॒ऽमि॒षाः । अद॑ब्धाः । उ॒रु॒ऽशंसाः॑ । ऋ॒जवे॑ । मर्त्या॑य ॥

सायणभाष्यम्

त्रीरोचनात्रीणिरोच्नानिरोचमानान्यग्न्यादीनितेजांसि दिव्यादिव्यानिदिविभवानिधारयन्त आदित्याअवस्थापयन् किमर्थं ऋजवेऋजीकायउपार्जकायस्तोत्राणां मर्त्यायमनुष्यायभोगसिद्भ्यर्थ मितियावत् कीदृशाआदित्याः हिरण्ययाः हिरण्मयाः हिरण्यालंकृतसर्वाङ्गः यद्वा हितरमणीय वेषाः शुचयोदीप्यमानाः धारपूताः उदकधारयाक्षालिताइवनिर्मलाः अस्वप्नजः असञ्चातस्वप्नाः सुपांसुलुगितिजसःसुः अपरआह अस्वप्नजः अस्वपन्तः विगतनिद्राः स्वपितृषोर्नजिङितिनजिङ्प्र- त्ययइति तदेतत्पदकारस्यानभिमतम् अनिमिषाः निमेशराहिताः अदब्धाः असुरादिभिरहिंसिताः उरुशंसाः उरुभिर्बहुभिःशंसनीयाः स्तोतव्याः एवंगुणविशिष्टाअधारयन्तेत्यन्वयः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः