मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् १०

संहिता

त्वं विश्वे॑षां वरुणासि॒ राजा॒ ये च॑ दे॒वा अ॑सुर॒ ये च॒ मर्ता॑ः ।
श॒तं नो॑ रास्व श॒रदो॑ वि॒चक्षे॒ऽश्यामायूं॑षि॒ सुधि॑तानि॒ पूर्वा॑ ॥

पदपाठः

त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ । ये । च॒ । दे॒वाः । अ॒सु॒र॒ । ये । च॒ । मर्ताः॑ ।
श॒तम् । नः॒ । रा॒स्व॒ । श॒रदः॑ । वि॒ऽचक्षे॑ । अ॒श्याम॑ । आयूं॑षि । सुधि॑तानि । पूर्वा॑ ॥

सायणभाष्यम्

हेअसुर शत्रूणांक्षेपकवरुण त्वंविश्वेषांसर्वेषांराजासि केषां येचदेवाःदेवजनाः येचमर्तामरणधर्मा- णोमनुष्याः तेषामित्यर्थः अतस्त्वंनोस्मभ्यंशतंशरदः शतसंख्याकान्संवत्सरान् विचक्षे विशेषेणदर्श- नायरास्वप्रयच्छ रादाने व्यत्ययेनात्मनेपदम् वयंचपूर्वापूर्वैः सुधितानिसुष्ठुहितानिशतसंवत्सरलक्ष- णान्यायूंषिअश्याम व्याप्नुयाम सुधितवसुधितनेमधितधिष्वधिषीयचेतिनिपात्यते गतिरनन्तरइति- गतेः प्रकृतिस्वरत्वम् सुपांसुलुगितितृतीयायाडादेशः ॥ १० ॥ आदित्यदेवताकेपशौनदक्षिणेत्येषाहविषोयाज्या सूत्रितञ्च—तिस्रोभूमीर्धारयन् त्रीँरुतद्यून्न- दक्षिणाविचिकितेनसव्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः