मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् ११

संहिता

न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा ।
पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद्यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्याम् ॥

पदपाठः

न । द॒क्षि॒णा । वि । चि॒कि॒ते॒ । न । स॒व्या । न । प्रा॒चीन॑म् । आ॒दि॒त्याः॒ । न । उ॒त । प॒श्चा ।
पा॒क्या॑ । चि॒त् । व॒स॒वः॒ । धी॒र्या॑ । चि॒त् । यु॒ष्माऽनी॑तः । अभ॑यम् । ज्योतिः॑ । अ॒श्या॒म् ॥

सायणभाष्यम्

हेआदित्याः दक्षिणादक्षिणोभागः नविचिकिते मयानविज्ञायते सव्यासव्योवामभागोपिनज्ञायते उभयत्रसुपांसुलुगितिसोराजादेशः तथाप्राचीनं पुरस्तादपिनज्ञायते विभाषाञ्चेरदिक् स्त्रियामिति- स्वार्थेखः उतअपिच पश्चा पश्चात्पृष्ठभागेपिनज्ञायते नैशेनतमसाआवृतत्वात् आन्तरादज्ञानाद्वा पश्च- पश्चाचच्छन्दसीतिनिपात्यते किंबहुना पाक्याचित् पाक्यःपक्तव्योपरिपक्वज्ञानोपि हुपचष् पाके ऋहलोर्ण्यत् तित्स्वरितः धीर्याचित् धीरेनेतव्यत्वेनभवोधीर्यः कातरः भवेछन्दसीतियत् कातरोपि उभयत्रसुपांसुलुगितिआकारः हेवसवोवासयितारआदित्याः युष्मानीतः युष्माभिर्नीतः शोभनेनमार्गे णप्रापितःसन् अभयं भयरहितं ज्योतिः सौरंतेजः आन्तरंवा ज्ञानात्मकं अश्यां प्राप्नुयाम् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः