मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् १२

संहिता

यो राज॑भ्य ऋत॒निभ्यो॑ द॒दाश॒ यं व॒र्धय॑न्ति पु॒ष्टय॑श्च॒ नित्या॑ः ।
स रे॒वान्या॑ति प्रथ॒मो रथे॑न वसु॒दावा॑ वि॒दथे॑षु प्रश॒स्तः ॥

पदपाठः

यः । राज॑ऽभ्यः । ऋ॒त॒निऽभ्यः॑ । द॒दाश॑ । यम् । व॒र्धय॑न्ति । पु॒ष्टयः॑ । च॒ । नित्याः॑ ।
सः । रे॒वान् । या॒ति॒ । प्र॒थ॒मः । रथे॑न । व॒सु॒ऽदावा॑ । वि॒दथे॑षु । प्र॒ऽश॒स्तः ॥

सायणभाष्यम्

योयजमानः राजभ्योराजमानेभ्यः ऋतनिभ्यः क्रतस्ययज्ञस्यसत्यस्यवानेतृभ्यः आदित्येभ्योददा- श चरुपुरोडाशादिकंददाति यंयजमानं पुष्टयः पोषकाः नित्याः शाश्वताः आदित्याश्चवर्धयन्ति सयज मानोरेवान् धनवान्प्रथमः प्रथितः प्रख्यातः वसुदावा वसूनांधनानां दातासन् प्रशस्तः सर्वैःप्रशस्य- मानः विदथेषुवेद्येषुलब्धव्येषुगृहेषुरथेनवाहनेनयातिगच्छति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः