मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् १५

संहिता

उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् ।
उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै ॥

पदपाठः

उ॒भे इति॑ । अ॒स्मै॒ । पी॒प॒य॒तः॒ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । वृ॒ष्टिम् । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् ।
उ॒भा । क्षयौ॑ । आ॒ऽजय॑न् । या॒ति॒ । पृ॒त्ऽसु । उ॒भौ । अर्धौ॑ । भ॒व॒तः॒ । सा॒धू इति॑ । अ॒स्मै॒ ॥

सायणभाष्यम्

यआदित्यानांभवतिप्रणीतावितिव्यवहितोप्यत्रेदंशब्देनपरामृश्यते अस्मैयजमानायसमीची स- ङ्गच्छमानेउभेद्यावापृथिव्यौपीपयतः प्याययतः कामान्वर्धयतः प्यायीवृद्धौ अस्माण्ण्यन्ताच्छान्द- सोलुङ् व्यत्ययेनतसस्तामादेशाभावः धातोःपीभावश्च सचसुभगः शोभनधनः दिवोद्युलोकादागतां वृष्टिंपुष्यन् वर्धयन् भवति नामेतिप्रसिद्धिर्द्योत्यते किञ्च पृत्सुपृतनासुसङ्ग्रामेषुआजयन् शत्रूनाभि- मुख्येनाभिभवन् उभाक्षयाउभौनिवासौ क्षियंति निवसन्त्यस्मिन्नितिक्षयोनिवासस्थानं पुंसिसंज्ञायां घःप्रायेणेतिअधिकरणेघः क्षयोनिवासेइत्याद्युदात्तत्वं तौपरैरनाक्रान्तं स्वकीयंनिवासस्थानम् आत्म- नापहृतंपरकीयंनिवासस्थानंचयातिगच्छति तथास्मैयजमानाय उभावर्धौजग्तोभागौचराचरात्मकौ मर्त्यामर्त्यात्मकौवासाधूसाधकौभवतः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः