मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् १६

संहिता

या वो॑ मा॒या अ॑भि॒द्रुहे॑ यजत्रा॒ः पाशा॑ आदित्या रि॒पवे॒ विचृ॑त्ताः ।
अ॒श्वीव॒ ताँ अति॑ येषं॒ रथे॒नारि॑ष्टा उ॒रावा शर्म॑न्त्स्याम ॥

पदपाठः

याः । वः॒ । मा॒याः । अ॒भि॒ऽद्रुहे॑ । य॒ज॒त्राः॒॑ । पाशाः॑ । आ॒दि॒त्याः॒ । रि॒पवे॑ । विऽचृ॑त्ताः ।
अ॒श्वीऽइ॑व । तान् । अति॑ । ये॒ष॒म् । रथे॑न । अरि॑ष्टाः । उ॒रौ । आ । शर्म॑न् । स्या॒म॒ ॥

सायणभाष्यम्

हेयजत्राः यष्टव्याआदित्याः वोयुष्माकंयाःमायाः अभिद्रुहे अभिद्रोहंकुर्वतेराक्षसादयेनिर्मिताः येचपाशाः रिपवेशत्रवेविचृत्ताः चृतीहिंसाग्रन्थनयोः प्रसारिताइत्यर्थः तान्पाशान् मायाश्चरथेन अतियेषं अतीत्यप्रयतेयं अतितरेयमित्यर्थः तत्रदृष्टान्तः—अश्वीव यथाशोभनाश्वः कशित्पुरुषः दुस्तरान्मार्गान् शीघ्रमतिक्रामति तद्वत् येष्टृप्रयत्ने भौवादिकोनुदात्तेत् छान्दसोलङ् व्यत्ययेनपर स्मैपदम् तथावयंअरिष्टाः शत्रुभिरहिंसिताःसन्तः उरौविस्तीर्णेशमन् शर्मेतिगृहनाम त्वयादत्ते- सुखेगृहेवाआसमन्तात् स्याम वर्तमानाभवेम ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः