मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २८, ऋक् १

संहिता

इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सान्त्य॒भ्य॑स्तु म॒ह्ना ।
अति॒ यो म॒न्द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरे॑ः ॥

पदपाठः

इ॒दम् । क॒वेः । आ॒दि॒त्यस्य॑ । स्व॒ऽराजः॑ । विश्वा॑नि । सन्ति॑ । अ॒भि । अ॒स्तु॒ । म॒ह्ना ।
अति॑ । यः । म॒न्द्रः । य॒जथा॑य । दे॒वः । सु॒ऽकी॒र्तिम् । भि॒क्षे॒ । वरु॑णस्य । भूरेः॑ ॥

सायणभाष्यम्

कवेः क्रान्तदर्शिनआदित्यस्य अदितेःपुत्रस्य स्वराजः स्वयमेवराजमानस्येश्वरस्यवा वरुणस्येदं हविःस्तोत्रंवा यजमानःकरोतीतिशेषः सचविश्वानिसर्वाणिसंति द्वितीयभावविकारभांजिभूतजाता निमह्नामहिम्नावरुणप्रसादाल्लब्धेनअभ्यस्तु अभिभवतु योदेवोद्योतमानोवरुणः यजथाययष्ट्रेपुरुषा यअतिशयेनमन्द्रः स्तुत्योहर्षयितावाभवति तस्यभूरेर्भर्तुर्वरुणस्यसुकीर्तिंशोभनांस्तुतिं भिक्षेप्रार्थये यद्वा वरुणस्येतितृतीयार्थेषष्ठी तेनवरुणेनदातव्यांशोभनांकीर्तिं अहंयाचे ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः