मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २८, ऋक् ४

संहिता

प्र सी॑मादि॒त्यो अ॑सृजद्विध॒र्ताँ ऋ॒तं सिन्ध॑वो॒ वरु॑णस्य यन्ति ।
न श्रा॑म्यन्ति॒ न वि मु॑चन्त्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ॥

पदपाठः

प्र । सी॒म् । आ॒दि॒त्यः । अ॒सृ॒ज॒त् । वि॒ऽध॒र्ता । ऋ॒तम् । सिन्ध॑वः । वरु॑णस्य । य॒न्ति॒ ।
न । श्रा॒म्य॒न्ति॒ । न । वि । मु॒च॒न्ति॒ । ए॒ते । वयः॑ । न । प॒प्तुः॒ । र॒घु॒ऽया । परि॑ऽज्मन् ॥

सायणभाष्यम्

विधर्ता सेतुरिवजलस्यविधारयिता आदित्यःअदितेःपुत्रोवरुणः ऋतंविधारणहेतुभूतंसत्यम् यद्वा नदीनामुपादानभूतमुदकम् सींसर्वतः प्रासृजत् प्रकर्षेणसृष्टवान् अणोप्रगृह्यस्यानुनासिकइत्याकारः सानुनासिकः तेनवरुणस्यर्तेन सिन्धवः स्यन्दनशीलानद्योयन्तिगच्छन्ति प्रवहन्ति एतेसिन्धवः नश्रा- म्यन्तिनप्राप्नुवन्ति नविमुचन्ति उपरतानभवन्ति अनलसाः सर्वदैकरूपेण प्रवहन्तीत्यर्थः एतदेवोच्य- ते—वयोन वयः पक्षिणइवरघुयाः लघुवर्गाः शीघ्रगामिनः परिज्मन् परिज्मनिभूम्यांपप्तुःपतंतिगच्छ न्ति पतॢगतौ लिट्युसितनिपत्योश्छान्दसीत्युपधालोपः स्थानिवद्भावात् द्विर्वचनादि रघुयाइत्यत्रसु- पांसुलुगितिजसोयाजादेशः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः