वि मच्छ्र॑थाय रश॒नामि॒वाग॑ ऋ॒ध्याम॑ ते वरुण॒ खामृ॒तस्य॑ ।
मा तन्तु॑श्छेदि॒ वय॑तो॒ धियं॑ मे॒ मा मात्रा॑ शार्य॒पसः॑ पु॒र ऋ॒तोः ॥
वि । मत् । श्र॒थ॒य॒ । र॒श॒नाम्ऽइ॑व । आगः॑ । ऋ॒ध्याम॑ । ते॒ । व॒रु॒ण॒ । खाम् । ऋ॒तस्य॑ ।
मा । तन्तुः॑ । छे॒दि॒ । वय॑तः । धिय॑म् । मे॒ । मा । मात्रा॑ । शा॒रि॒ । अ॒पसः॑ । पु॒रा । ऋ॒तोः ॥
हेवरुण मत् मत्सकाशात् रशनामिवरज्जुमिवआगः विहिताननुष्ठानजनितं पापं विश्रथय शिथि- लीकुरु विमोचयोत्यर्थः तेत्वत्संबन्धिनऋतस्योदकस्यपूर्णांखांनदीं खाइतिनदीनाम तां ऋध्याम लभेमहि अपिच धियंकर्म वयतः संतन्वतोमेममतन्तुःकर्मसन्ततिः माछेदि छिन्नोमाभूत् नैरन्तर्येणा- स्त्वित्यर्थः तथाऋतोः समाप्तिकालात् पुरापूर्वंअपसः कर्मणः मात्राशरीरं प्राच्योदीच्यांगलक्षणं मा- शारि शीर्णंविकलंमाभूत् शॄहिंसायां कर्मणिलुङ् पुरऋतोरित्यत्रऋत्यकइतिप्रकृतिभावः ॥ ५ ॥