मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २८, ऋक् ७

संहिता

मा नो॑ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेनः॑ कृ॒ण्वन्त॑मसुर भ्री॒णन्ति॑ ।
मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृधः॑ शिश्रथो जी॒वसे॑ नः ॥

पदपाठः

मा । नः॒ । व॒धैः । व॒रु॒ण॒ । ये । ते॒ । इ॒ष्टौ । एनः॑ । कृ॒ण्वन्त॑म् । अ॒सु॒र॒ । भ्री॒णन्ति॑ ।
मा । ज्योति॑षः । प्र॒ऽव॒स॒थानि॑ । ग॒न्म॒ । वि । सु । मृधः॑ । शि॒श्र॒थः॒ । जी॒वसे॑ । नः॒ ॥

सायणभाष्यम्

हेवरुण नोस्मान्वधैः हननसाधनैरायुधैर्माहिंसीरितिशेषः हेअसुर पापकृतांनिरसितः ते त्वदीये- इष्टौयज्ञेएनः विहिताननुष्ठानेनजनितंपापंकृण्वन्तंकुर्वन्तंपुरुषंयेवधाभ्रीणन्ति हिंसन्ति तैरितिपूर्वत्रसं- बन्धः भ्रीष् हिंसायां क्रैयादिकः अपिच ज्योतिषः गृहेवर्तमानादग्नेःसौरप्रकाशाद्वाप्रवसथानिप्रवासा- न्मागन्म मागच्छाम सर्वदागृहेवर्तमानः सूर्यंपश्यंश्चिरकालंजीवेयमित्यर्थः गमेर्लुङिमन्त्रेघ्सेतिच्लेर्लुक् तथानोस्माकंजीवसेजीवनायमृधोहिंसकान् सुसुष्ठुविशिश्रथः विश्लेषय बाधस्वेत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०