मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २८, ऋक् ८

संहिता

नमः॑ पु॒रा ते॑ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम ।
त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ॥

पदपाठः

नमः॑ । पु॒रा । ते॒ । व॒रु॒ण॒ । उ॒त । नू॒नम् । उ॒त । अ॒प॒रम् । तु॒वि॒ऽजा॒त॒ । ब्र॒वा॒म॒ ।
त्वे इति॑ । हि । क॒म् । पर्व॑ते । न । श्रि॒तानि॑ । अप्र॑ऽच्युतानि । दुः॒ऽद॒भ॒ । व्र॒तानि॑ ॥

सायणभाष्यम्

हेवरुण पुरापूर्वस्मिन्काले तेतुभ्यंनमः नमस्कारप्रतिपादकं नमइतिशब्दमवादिष्म उतअपिचनू नमद्यापिब्रवाम उतअपिच हे तुविजात बहुप्रदेशेषुप्रादुर्भूत वरुण अपरं आगामिन्यपिकालेनमः शब्दंब्रवाम उच्चारयाम क्स्मादितिचेदुच्यते—दूळभ दुर्दभ दंभितुंहिंसितुमशक्य दुरोदाशनाशद- भध्येष्वितिरेफस्योत्वमुत्तरपदांदेष्टुत्वंच कमित्येतत्प दपूरणम् हियस्मात् त्वेत्वयिपर्वतेन शिलो- च्चयेइव अच्युतानि अन्यैः प्रच्यावयितुमशक्यानि व्रतानिकर्माणिविधरणानि श्रितानि आश्रितानि तस्मादित्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०