मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २८, ऋक् ९

संहिता

पर॑ ऋ॒णा सा॑वी॒रध॒ मत्कृ॑तानि॒ माहं रा॑जन्न॒न्यकृ॑तेन भोजम् ।
अव्यु॑ष्टा॒ इन्नु भूय॑सीरु॒षास॒ आ नो॑ जी॒वान्व॑रुण॒ तासु॑ शाधि ॥

पदपाठः

परा॑ । ऋ॒णा । सा॒वीः॒ । अध॑ । मत्ऽकृ॑तानि । मा । अ॒हम् । रा॒ज॒न् । अ॒न्यऽकृ॑तेन । भो॒ज॒म् ।
अवि॑ऽउष्टाः । इत् । नु । भूय॑सीः । उ॒षसः॑ । आ । नः॒ । जी॒वान् । व॒रु॒ण॒ । तासु॑ । शा॒धि॒ ॥

सायणभाष्यम्

हेवरुण ऋणाऋणानिपित्रादिभिः कृतान्यस्माभिर्देयानिपरासावीः परासुव पराचीनप्रेरय षुप्रेरणे छान्दसोलुङ् अधाधुनामत्कृतनिमयानिष्पादितानिऋणानिपरासुव अपिच हेराजन् स्वामिन् वरुणअहंअन्यकृतेनअन्यैरर्जितेनधनेनमाभोजंभोगंमालभेयम् किंकारणमितिचेदुच्यते—भूयसीः भूयस्योबहुतराः उषसः अव्युष्टाइत् नुसत्यंअव्युष्टाएवअपररात्रेषूत्थायऋणानि चिन्तयतोजाग्रतो- ममव्युष्टाअप्यव्युष्टक्ल्पाआसन् हेवरुण तासूषस्सुनोस्मान् जीवान् जीवनवतः आशाधि आसमन्ताद- नुशिष्टान्कुरु ऋणान्यपहृत्यभोगपर्याप्तंधनंप्रयच्छेत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०