मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २९, ऋक् १

संहिता

धृत॑व्रता॒ आदि॑त्या॒ इषि॑रा आ॒रे मत्क॑र्त रह॒सूरि॒वागः॑ ।
शृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा॑ भ॒द्रस्य॑ वि॒द्वाँ अव॑से हुवे वः ॥

पदपाठः

धृत॑ऽव्रताः । आदि॑त्याः । इषि॑राः । आ॒रे । मत् । क॒र्त॒ । र॒ह॒सूःऽइ॑व । आगः॑ ।
शृ॒ण्व॒तः । वः॒ । वरु॑ण । मित्र॑ । देवाः॑ । भ॒द्रस्य॑ । वि॒द्वान् । अव॑से । हु॒वे॒ । वः॒ ॥

सायणभाष्यम्

हेधृतव्रताः धृतकर्माणः आदित्याः अदितेःपुत्राः इषिराः गमनशीलाः सर्वैभ्येषणीयाः प्रार्थानी- यावा हेविश्वेदेवाः मदारेमत्तोदूरदेशेआगः विहितानुष्ठानादिजनितंपापंकर्तकुरुत करोतेश्छान्दसोवि- करणस्यलुक् तप्तनप्तनथनाश्चेतितबादेशः तत्रदृष्टान्तः—रहसूरिव रहसिअन्यैरज्ञातेप्रदेशेसूयतइतिर- हसूःव्यभिचारिणी सायथागर्भंपातयित्वादूरदेशेपरित्यजतितद्वत् हेवरुण मित्र देवाः वोयुष्मदीयस्य भद्रस्ययुष्माभिःकरणीयंश्रेयोविद्वान् जानन्नहंश्रृण्वतः मत्कृतानि स्तोत्राणिश्रोत्रेणजानतोवोयुष्मान् अवसे रक्षणार्थंहुवेआह्वयामि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११