मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २९, ऋक् ४

संहिता

ह॒ये दे॑वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्य॑म् ।
मा वो॒ रथो॑ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ॥

पदपाठः

ह॒ये । दे॒वाः॒ । यू॒यम् । इत् । आ॒पयः॑ । स्थ॒ । ते । मृ॒ळ॒त॒ । नाध॑मानाय । मह्य॑म् ।
मा । वः॒ । रथः॑ । म॒ध्य॒म॒ऽवाट् । ऋ॒ते । भू॒त् । मा । यु॒ष्माव॑त्ऽसु । आ॒पिषु॑ । श्र॒मि॒ष्म॒ ॥

सायणभाष्यम्

हयेदेवाः छान्दसोवर्णोपजनः हेदेवाः यूयमित् यूयमेवआपयः धनस्यप्रापयितारोबन्धवः स्थ भवथ तेयूयंनाधमानायअभिमतंफलंयचमानायमह्यंस्तोत्रेमृळतसुखयत तथावोयुष्माकंरथःऋते- स्मदीयेयज्ञेनिमित्तभूतेमध्यमवाट् माभूत् मध्यमेनमन्दगमनेनवाहकोमाभूत् शीघ्रंयुष्मान्वहत्वित्यर्थः वयंयुष्मावत्सुयुष्मत्सदृशेष्वापिषुबन्धुषुसत्सुमाश्रमिष्म श्रान्तामाभूम वतुप्प्रकरणेयुष्मदस्मद्भ्यांछ- न्दसिसादृश्यउपसंख्यानमितिवतुप् आसर्वनाम्नइत्यात्वम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११